महाकवि कालीदास पर संस्कृत में निबंध लिखिए 100 शब्दों में।

          महाकविः कालिदासः

(मम प्रियः कविः) 

महाकविः कालिदासः मम प्रियः कविः अस्ति। सः संस्कृतभाषायाः श्रेष्ठतमः कविः अस्ति। यादृशः रस-प्रवाहः कालिदासस्य काव्येषु विद्यते तादृशः अन्यत्र नास्ति। सः कविकुलशिरोमणिः अस्ति। कालिदासेन त्रीणिनाटकानि, (मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलम् च) द्वे महाकाव्ये (रघुवंशम् कुमारसम्भवं च) द्वे गीतिकाव्ये (मेघदूतम् ऋतुसंहारम् च) च रचितानि । कालिदासस्य लोकप्रियतायाः कारणं तस्य प्रसादगुणयुक्ता ललिता शैली अस्ति। कालिदासस्य प्रकृतिचित्रणं अतीवरम्यम् अस्ति। चरित्रचित्रणे कालिदासः अतीव पटुः अस्ति।

कालिदासः महाराजविक्रमादित्यस्य सभाकविः आसीत्। अनुमीयते यत्तस्य जन्मभूमिः उज्जीयनी आसीत्। मेघदूते उज्जयिन्याः भव्यं वर्णनं विद्यते। कालिदासस्य कृतिषु कृत्रिमतायाः अभावः अस्ति। कालिदासस्य उपमा प्रयोग: अपूर्वः। अतः साधूच्यते-'उपमा कालिदासस्य।'

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.